Ask Experts Questions for FREE Help !
Ask

translation from sanskrit to english

Asked Jul 28, 2012, 11:15 PM —
can anybody convert this is english. I have project tomorrow

वेदव्यासः

गम्यताम् अत्र : पर्यटनम्, अन्वेषणम्

महाभारतस्य रचनाकारः भगवान् व्यासः । वेदानां विभागः अनेन कृतः इत्यतः वेदव्यासः इति एतस्य नाम । द्वीपे अस्य जन्म अभवत् इत्यतः ‘कृष्णद्वैपायनः’ इत्यपि एतस्य नाम । एतस्य पिता पराशरमुनिः माता च सत्यवती ।

व्यासस्य शैली अपि वाल्मीके: इव सरला एव । महाभारतम् अपि आधिक्येन अनुष्टुपछ्न्दसा एव उपनिबद्धम् अस्ति । भगवान् वेदव्यास: महर्षे: पराशरस्य पुत्र: । एष: कैवर्तराजस्य पालितपुत्र्याः सत्यवत्या: गर्भे जन्म प्राप्तवान् । एष: कश्चन अलौकिक: शक्तिसम्पन्न: महापुरुष: अपि च महानाकारक पुरुष: आसीत् । एष: जनानां स्मरणशक्ते: क्षीणतां दृष्ट्वा वेदानाम् ऋग्वेद:, यजुर्वेद:, सामवेद:, अथर्वणवेद: च इति विभजनम् अकरोत् । प्रत्येकां संहिताम् अपि प्रत्येकस्मै शिष्याय बोधितवान् । एकैकस्याः: संहिताया: अपि अन्यान्या: शाखा:, उपशाखा: च अभवन् । एवं एतस्य यत्नेन वैदिकसाहित्यस्य बहुविस्तार: अभवत् । विस्तारं व्यास: इति वदन्ति । वेदस्य विस्तार: एतेन अभवत् इति कारणेन एष: ‘वेदव्यास:’ नाम्ना प्रसिद्धः जात: । एतस्य जन्म कस्मिश्चित् द्वीपे अभवत् । श्यामलवर्णस्य एतं जना: ‘कृष्णद्वैपायन’ इत्यपि आह्वयन्ति । बदरीवने एष: आसीत् इति कारणेन एतस्य नाम ‘बादरायण:’ इत्यपि आसीत् । अष्टादशपुराणा:, महाभारतस्य रचनाम् एष: एव अकरोत् । संक्षेपेण उपनिषद: तत्त्वान् बोधयितुं ब्रह्मसूत्राणां निर्माणम् अकरोत् । तेषां विषये अन्यान्या: आचार्या: भाष्याणि रचयित्वा स्वेषां विभिन्नान् अभिप्रायान् प्रकटितवन्त: । ‘व्यासस्मृति:’ एतेन रचित: कश्चन स्मृतिग्रन्थ: । एवं भारतीयसाहित्यस्य, हिन्दूसंस्कृते: विषये व्यासस्य महत् योगदानम् अस्ति । श्रुति-स्मृति-पुराणोक्तस्य सनातनधर्मस्य कश्चन प्रधान: व्याख्यानकार: व्यास: इति उच्यते । हिन्दव:, भारतीयसंस्कृति: च यावत् पर्यन्तं तिष्ठति तावत् पर्यन्तम् एतस्य नाम अमरम् एव । जगति एव एष: महान् श्रेष्ठ: पथप्रदर्शक:, शिक्षक: च इति उच्यते । अत: तस्य ‘जगद्गुरु:’ इति गौरवम् अपि प्राप्तम् अस्ति । गुरुपूर्णिमायां [आषाढपूर्णिमा] प्रत्येकहिन्दूगृहस्थ: एतस्य पूजां करोति । एष: श्रीकृष्णपरमात्मनः तम् अमरम् उपदेशं स्वस्य महाभारतस्य संहितायां योजयित्वा जगति तम् उपदेशं सुलभं कृतवान् अस्ति । महाभारतं लक्षश्लोकात्मकः विस्तृतः ग्रन्थः । व्यासः भारतकथां पुत्रं शुकं शिष्यं वैशम्पायनं च बोधितवान् । वैशम्पायनः जनमेजयं तां कथाम् अवदत् । जनमेजयेन उक्ता भारतकथा एव इदानीम् उपलभ्यते । रामायणे इव अत्रापि ब्रह्मा व्यासं भारतकथालेखनाय प्रोत्साहयति । व्यासः योग्यस्य लेखकस्य अभावं वदति । ततः गणेशः भारतकथायाः लेखनकार्यम् अङ्गीकरोति । व्यासेन उक्तां भारतकथां सः लिखति च । आर्यभटः वदति - क्रि. पू. ३१०१ तमे वर्षे कलियुगस्य आरम्भः अभवत् इति । कलियुगस्य आरम्भदिने श्रीकृष्णः परं धाम गतवान् । ततः ३७ वर्षेभ्यः पूर्वं महाभारतयुद्धं प्रवृत्तम् । अतः महाभारतकालः, व्यासकालः च प्रायः एषः एव इति निर्णेतुं शक्य:। महाभारते बह्वयः उपकथाः उपलभ्यन्ते । अतः भारतकथाम् अवलम्ब्य गद्यपद्यचम्पूकाव्यादीनि बहूनि लिखितानि विविधैः कविभिः । भगवद्गीता, हरिवंशः इत्यादयः अपि महाभारते एव अन्तर्भवन्ति ।

महर्षि: वेदव्यास: त्रिकालदर्शी, इच्छागतिमान् च आसीत् । एष: सर्वस्य मनस: चिन्तनं ज्ञातुं शक्नोति स्म । यत्र इच्छति क्षणाभ्यन्तरे तत्र गन्तुं शक्नोति स्म। जन्मानुक्षणं मातु: आज्ञां प्राप्य तप: कर्तुं वनं गतवान् । गमनसमये उक्त्वा गतवान् यद् – ‘यदा भवत्यै मम आवश्यकता भवति तदा मां स्मरतु । अहं भवत्या: समीपे उपस्थितः भविष्यामि’ इति ।

पाण्डवा: विदुरस्य युक्त्या लाक्षागृहत: बहि: आगत्य एकचक्रनगरे आसन् । तस्मिन् सन्दर्भे व्यास: मेलनार्थं तत्र गतवान् आसीत् । प्रसङ्गवशात् स: द्रौपद्या: पूर्वजन्मन: वृत्तान्तं कथयन् ‘एषा कन्या भवद्भ्यः इति एव पूर्वनिश्चिता अस्ति’ इति । एतत् वचनं श्रुत्वा पाण्डवानाम् आनन्द: उत्साह: च वर्धितः । ते द्रौपद्या: स्वयंवरे भागं ग्रहीतुं पाञ्चालनगरं गतवन्त: । तत्र अर्जुन: स्वयंवरस्य नियमानुसारं द्रौपदीं जितवान् । मातुः कुन्त्याः आज्ञया यदा पञ्चसहोदरा: अपि तया सह विवाहं कर्तुम् इच्छन्ति तदा राजा द्रुपदः न अङ्गीकरोति । तस्मिन् समये व्यास: तत्र आगत्य तस्या: पूर्वजन्मनः वृत्तान्तं निवेद्य पञ्चभिः सहोदरै: सह तस्या: विवाहं कारयितुं द्रुपदम् अङ्गीकारितवान् ।

यदा महाराज: युधिष्ठिर: इन्द्रप्रस्थनगरे राजसूययागं कृतवान् तदापि वेदव्यास: यज्ञे भागं ग्रहीतुं स्वस्य शिष्यवृन्दै: सह आगतवान् आसीत् । यज्ञं समाप्य गमनसमये स: युधिष्ठिरम् “अद्यारभ्य त्रयोदशवर्षाणाम् अनन्तरं क्षत्रियाणां महासंहार: भविष्यति । तस्मिन् दुर्योधनस्य अपराधानां भवान् निमित्त: भविष्यति” इति वदति ।

पाण्डवानां सर्वस्वम् अपहृत्य तान् द्वादशवर्षाणां वनवासं प्रति प्रेषयित्वा अपि दुर्योधनः न हृष्टः। स: पाण्डवान् वने एव मारयितुं चिन्तितवान् । मातुल: शकुनि:, कर्ण:, दु:शासनः इत्येतैः सह रहस्येण पाण्डवानाम् उपरि आक्रमणं कर्तुं निश्चित्य शस्त्रास्त्रैः सुसज्जितं रथम् आरुह्य वनं प्रस्थितवान् । व्यास: दिव्यदृष्ट्या एतत् दुष्टं षड्यन्त्रं ज्ञातवान् । स: अनुक्षणं तत्र आगत्य घोरात् दुष्कर्मणः तं निवारितवान् । अनन्तरं स: धृतराष्ट्रं ‘भवान् द्यूतस्य पराजयव्याजेन पाण्डवान् वनं प्रेषितवान् । एतत् सत्कार्यं न । एतस्य परिणाम: उत्तम: न भवति । भवान् भवत:, भवत: पुत्राणां च हितम् इच्छति चेत् इदानीं वा कृतस्य दोषस्य परिहारं करोतु । दुरात्मा दुर्योधन: राज्यलोभेन पाण्डवान् मारयितुम् इच्छति ! पाण्डवान् यदि मारयितुं यत्नं करोति तर्हि तेन तस्य प्राणा: दातव्या: भवेयुः। भवान् यदि पुत्रस्य द्वेषबुद्धेः निवारणं कर्तुं यत्नं न करोति तर्हि अनर्थ: भविष्यति । दुर्योधन: एक: एव गत्वा किञ्चित् कालं पाण्डवानां समीपे तिष्ठतु इति मम अभिप्राय: । पाण्डवानां सत्सङ्गेन तस्य द्वेषभाव: प्रणश्य प्रेमभावस्य जागरणं भवेत् । एतद् कठिनम् अस्ति । यत: जन्मत: आगतस्य स्वभावस्य परिवर्तनं सहजं न । पाण्डवै: सह भवत: पुत्रा: मिलित्वा तिष्ठन्ति चेत् कुरुवंश: अवशिष्यते। किञ्चित् कालाभ्यन्तरे महर्षि: मैत्रेय: अत्र आगमिष्यति । स: भवत: पुत्राय मिलित्वा तिष्ठन्तु” इति उपदेशं करोति । चिन्तनं विना भवन्त: तस्य वचनं शृण्वन्तु । अन्यता स: कोपेन शापं दद्यात्’ इत्यपि व्यास: उक्तवान् । तथैव किञ्चिदनन्तरं मैत्रेय: तत्र आगत्य बोधनं कृतवान् । किन्तु दुर्योधन: तस्य वचनं न श्रुतवान् । अत: महर्षे: कोपम् अनुभूतवान् ।

यदा पाण्डवा: वने आसन् तदा कदाचित् स: आगत्य युधिष्ठिरस्य द्वारा अर्जुनाय स्मृतिविद्याया: उपदेशं दत्तवान् । अत: अर्जुनाय देवदर्शनस्य योग्यता आगता । तावदेव न, व्यास: सञ्जयाय दिव्यदृष्टिं दत्तवान् । तेन कारणेन स: युद्धस्य सर्वान् विशयान् ज्ञातुं शक्नोति स्म । भगवत: विश्वरूपस्य दिव्यचतुर्भुजस्य रूपस्य देवदुर्लभदर्शनस्य योग्यतामपि प्राप्तवान् । साक्षात् भगवत: मुखत: भगवद्गीताया: दिव्योपदेशम् अपि श्रुतवान् । अर्जुनेन विना अन्ये केऽपि गीतां न श्रुतवन्त: । दिव्यदृष्टेः प्रभावत: सञ्जयाय एषा योग्यता आगता । स: तु साक्षात् नारायणस्य अंश: एव आसीत् ।

धृतराष्ट्र: गान्धारी कुन्ती च यदा वने आसन् तदा कदाचित् युधिष्ठिर: तान् द्रष्टुं परिवारै: सह तत्र गतवान् आसीत् । तदा व्यास: अपि तत्र आगतवान् आसीत् । धृतराष्ट्रगान्धार्यो: पुत्रशोकम् इतोऽपि न गतमासीत् । कुन्ती अपि बान्धवानां वियोगेन दु:खे अस्ति इति ज्ञात्वा धृतराष्ट्रं प्रति वरं प्रष्टुं व्यास: वदति । युद्धे मृतानां पुत्राणां मित्राणां च गति: का स्यात् इति स: ज्ञातुम् इष्टवान् । “एकवारं तान् सर्वान् द्रष्टुम् इच्छामि” इति स: व्यासं प्रार्थितवान् । व्यास: वदति यद् – शयनानन्तरम् उत्थितं मानवमिव अद्य रात्रौ भवन्त: सर्वे मृतान् बन्धून् पश्यन्ति’ इति । सर्वे सायंकर्माणि समाप्य गङ्गातटे मिलितवन्त: ।

व्यास: गङ्गाया: पवित्रं जलं प्रविश्य युद्धे मृतान् कौरवान् पाण्डवान् च उच्चैः आह्वयति । अनुक्षणं यथा कुरुक्षेत्रस्य अङ्गणे युद्धाय समावेशितानां सैन्यानां कोलाहलः श्रूयते स्म तथा शब्द: जलेऽपि श्रुत: । अनन्तरं युद्धे वीरगतिं प्राप्तवन्तः सर्वे राजान:, राजकुमारा: च भीष्मद्रोणादीनां नेतृत्वे एव जलत: बहि: आगतवन्त:। युद्धसमये यथा वेशं, ध्वजं, वाहनं, दिव्यवस्त्रं, दिव्यमाला:, कुण्डलं च धृतवन्त: आसन् तथा एव इदानीमपि धृतवन्त: आसन् । सर्वाणि शरीराणि अपि दिव्यप्रभया कान्तियुक्तानि आसन् । प्रत्येकम् अपि क्रोधरहित:, द्वेषासूयारहित:, निरभिमानयुक्त: च दृश्यन्ते स्म । गन्धर्वा: तेषां यशोगानं कुर्वन्त: आसन् । वन्दीजना: तेषां स्तुतिं कुर्वन्त: आसन् । तदा व्यास: धृतराष्ट्राय दिव्ये नेत्रे दत्तवान् आसीत् । अत: स: सम्यक् सर्वान् योधान् अपश्यत् ।

तत् दृश्यं तु अत्यद्भुतम्, अचिन्त्यं, रोमाञ्चकारि च आसीत् । सर्वे तदेकदृष्ट्या तत् दृश्यं दृष्टवन्त: । आगता: जना: क्रोधेन विना बन्धुभि: मिलितवन्त: । एवम् आरात्रि प्रेमीणां समागम: चलति स्म । अनन्तरं ते सर्वे यथा आगतवन्त: तथैव भागीरथ्या: जलं प्रविश्य स्वलोकान् गतवन्त: । तदा व्यास: वदति ‘काः अपि स्त्रिय: पत्यु: लोकं गन्तुम् इच्छन्ति चेत् गङ्गायां प्रवेशः करणीयः ’ इति । तच्छृत्वा बह्व्यः: स्त्रिय: जलं प्रविश्य मानवदेहं त्यक्त्वा पत्यु: लोकं गतवत्य: । एता: अपि दिव्यं वस्त्राभूषणं धृत्वा विमानयाने उपविश्य गतवत्यः ।

अत्र राजा जनमेजय: वैशम्पायनस्य मुखत: एतम् अद्भुतं वृत्तान्तं श्रुत्वा बहुकुतूहलम् अनुभूतवान् । स: अपि स्वस्य स्वर्गवासिनः पितुः महाराजस्य परीक्षितस्य दर्शनं कर्तुम् ऐच्छत् । व्यास: तदापि तत्रैव आसीत् । स: तस्य इच्छापूरणाय राजानं परीक्षितं तत्र आहूतवान् । जनमेजय: यज्ञान्ते स्नानसमये स्वेन सह पितु: अपि स्नानं यदा कारयति तदनन्तरं परीक्षित: तत: प्रस्थितवान् । एवं महर्षि: वेदव्यास: कश्चन अलौकिक: शक्तिशाली महापुरुष: च ।



Check out some similar questions!

English to Sanskrit Translation [ 0 Answers ]

A school is an institution designed for the teaching of students (or "pupils") under the supervision of teachers. Most countries have systems of formal education, which is commonly compulsory. In these systems, students progress through a series of schools. The names for these schools vary by...

English to Sanskrit Translation [ 1 Answers ]

Hello, I was wondering if anyone knows the translation from English to Sanskrit for the quote "Kill off all my demons and my angels might die too." Also, if you know the phonetic pronunciation it would be very helpful. Thank you!



View more Teaching questions Search
 
Thread Tools Search this Thread
Search this Thread:

Advanced Search

Add your answer here.

Remove Text Formatting

Undo
Redo
 
Decrease Size
Increase Size
Bold
Italic
Underline
Align Left
Align Center
Align Right
Ordered List
Unordered List
Decrease Indent
Increase Indent
Insert Email Link
Wrap [QUOTE] tags around selected text
Wrap [CODE] tags around selected text
Wrap [HTML] tags around selected text
Wrap [PHP] tags around selected text
Wrap [YOUTUBE] tags around selected text
Notification Type: